________________ तृतीयः सर्गः 87 ( 64 ) अमान्तमन्तःकरणेऽस्य शौर्य रसं किमादाय कृता विधात्रा। सुत्रामजैत्राद्भुतगात्रवीर्याः, सहस्रशस्तस्य जयन्ति पुत्राः // ( 65 ) एकोऽपि तेषां यदि युद्ध रङ्ग च्छेको रणेऽभ्यापति प्रकोपात् / भेकोपमानाः क्षितिपास्तदानीं, पलायनस्यैव कलां स्मरन्ति / चित्रं न यच्छत्ययमथिनेऽर्थ, कराग्रजाग्रच्छतकोटि पद्मः / यत्यक्तकोशो द्विषतां ददाति, - खड्गेऽस्य दिव्यश्रियमद्भुतं तत् // ( 67 ) तस्य प्रतापानलधूम एव, चकास्ति साक्षादसितः कृपाणः / . . विपक्षभूभृन्मशकव्रजोऽस्मा न्नो चेत् पलायेत कथं विषण्णः //