________________ आर्षभीय-चरित-महाकाव्य ( 60 ) वाक्कौशलाद् वा पतिमीहते स, प्रोद्दामधीजेंतुमिहानु तं यत् / लक्ष्मच्छलोद्ग्राहनिगोर्णवर्णमालम्बितं पत्रमिवेदमिन्दुः // . ( 61 ) सुधीभिरक्षुद्रविमुद्रितार्थ विस्तारिसारस्वतसारकोशः / सकर्णकर्णामृतयानतृप्तिः, सजायते तस्य महासभायाम् // ... ( 62 )' कविबंधश्चाभ्युदयं लभेते, ‘सदा यदभ्यर्णगति श्रयन्तौ / स कोऽपि भास्वान् गणकैरदृष्टस्वभावधामा बहलोशनामा // ( 63 ) अपारिजातोऽपि स पारिजातः, सम्पूरयन्नथिगणे हितानि / अमन्दरागोऽपि च मन्दरागः, स्थैर्येण कि भक्तजनन दृष्टः //