________________ 8 आर्षभीय-चरित-महाकाव्यम् ( 52 ) मित्रं तदास्यस्य रवेश्च पद्म, . मिथो महामत्सरवारणाय / ददाति कि गुञ्जदलिच्छलेन, तदोजसस्तस्य च सन्धिजल्पम् // * ( 53 ) गुणास्तदीयाः शरदिन्दुशुभ्रा __ श्चेतो जनानामिह रञ्जयन्ति / सा चातुरी काचन धातुरीहा मन्वेतु नो वस्तुगति तु जातु // . (54) उद्वासयन्त्यन्यगुणांश्चिरस्थान, मनो जनानां प्रसभं हरन्ति / तुदन्ति रोमोद्गमकण्टकस्तानुच्छृङ्खलाः केऽपि गुणास्तदीयाः // ( 55 ) तद्रूपसौन्दर्यनिरूपणेन, कन्दर्पदर्पस्तनुतामुपैति / स्पर्धानुबन्धं हृदयेन धत्तो, नूनं विनेयाविव चाश्विनेयौ //