________________ 82 आर्षभीय-चरित-महाकाव्यम् ( 44 ) अवैति शत्रुक्षितिपान् समग्रान्, ... युक्तं मृगानेव स राजसिंहः। .. मुखे तृणं ग्राहयिता रणे तानरण्यवासं भयकम्प्रतां च // .. .( 45 ) स्वरं भनक्त्यप्रतिरुद्धदो, महाबलोऽसावसुहृद्रुमौघान् / संक्षोभयत्येव मनःसमुद्र, महीयसामप्युपजातकोपः // . ( 46 ) अमुष्य सच्चामरधारिणीव, प्रदर्शयन्ती शुचिपक्षपातम् / कदापि सेवाक्षणरङ्गभङ्गभीत्येव नीतिन जहाति पार्श्वम् // ( 47 ) अस्याननं लोचनलक्ष्मयुग्म, __ चन्द्रो द्विपक्षी विशदं यशश्च / . भालं विशालं च तदर्धमत्र, द्वासप्ततिस्तेन कला घंटन्ते //