________________ तृतीयः सर्गः ( 40 ) संशेरते चेन्मम योग्यतायां, __ चक्रामराश्चक्रिपदस्य शश्वत् / तदर्शयन्ते किममी प्रमीला, लीलाकृतः सङ्गररङ्गनाटयम् // ( 41 ) इत्यादिचिन्तातटिनीनिमग्नं, भूपालभालस्थलरत्नमेनम् / समुद्दिधीर्घः प्रकटीचकार, मन्त्री गिरं नावमिवानवद्याम् // अवैमि राजेन्द्र ! चरैस्तवाज्ञां, न मन्यते बाहुबली बलोयान् / भ्राता कनीयानधुनाऽपि चण्डदोर्दण्डवित्रासितविश्व वीर / / ( 43 ) पृथ्व्यां प्रसिद्धाः कठिना गिरीन्द्रा स्तद्दारि तेभ्यः कठिनं च वजम् तच्चूर्णने जाग्रदखर्वगर्वा, ततोऽपि कामं कठिनास्य मुष्टिः // .. प्रा० 11