________________ पार्षभीय-चरित-महाकाव्यम् ( 36 ) एकातपत्रीकृतसर्वभूमे- रित्येषमत्यद्भुतसम्पदोऽपि / न वश्यतां यन्मम चक्रमेति, दुनोति तच्छल्यमिवोनमन्तः॥ . ( 37 ) कृतौ स्फुटं लाघवमीक्षमाणे. या नेष्यते न्यायबुधैरिवानीम् / न शाब्दिकानामिव कर्तरीयं, मयि क्षमाऽऽख्यातपदप्रवृत्तिः / / - ( 38 ) स्थानेन यावस्थितिमेति चक्र, स्थानस्थितं स्यान्न मनोऽपि तावत् / द्वयोस्तदुच्छृङ्खलयोः खलोक्तिनियन्त्रणायां मम कोऽप्युपायः // / 36 ) संशोधिते चक्रिपदस्य हेतो, द्राक् कण्टकोद्धारविधिप्रयोगात् / वादोव चक्र विमुखीभविष्णु,. कं दोषमुत्पश्यति मेऽवशिष्टम् // .