________________ 76 तृतीयः सर्गः . ( 32 ) पूर्णप्रयत्ने विहितेऽपि चक्र, बहिश्चरेऽपायनिपातशङ्की / अलब्धसिद्धिर्महतीं तदानीं, योगीव चिन्तां विततान चक्री // ( 33 ) न रञ्जितौ कैश्चरणौ मदीयौ, स्वकीयकोटीरमणिप्रभाभिः / कैर्वा नरेन्द्रविहिता न मौलौ, पुष्पस्रजाज्ञा मम सद्वितीया // ( 34 ) कि नाम रत्नं रुचिरं धरित्र्यां, मदीयकोशे न शयालु जातम् / काः सम्पदः पद्ममिवालिमाला, न मामहम्पूविकया समीयुः // / ( 35) न के मदोत्क्षिप्तकराः करीन्द्रा, गर्जन्ति मे तजितहस्तिमालाः / अमूल्यतां बिभ्रति बिभ्रतः के, न वाजिनो देवमणि विगाले। 1. 'प्रपन्नाः' इति ग्रन्थकृत्पाठान्तरम् / 2. कण्ठे।