________________ 78 पार्षभीय-चरित-महाकाव्यम ( 28 ) तव प्रभुत्वे प्रविशन्त्विदानी, . बाह्यानि राज्यानि नरेन्द्र तेषाम् / चन्द्रोडुतेजांसि रवेरिवाशु, राशौ दिनादावुदये समे ते // * ( 26) श्रुत्वैताततॊऽनुजविप्रयोगात्, तद्राज्यलाभाच्च मुदं दधानः / सङ्कीर्णरूपो भरतेश्वरोऽभू च्छायातपाभ्यामिव भाद्रघस्रः // . (30) स जनसे तानि ततोऽनुजाना, राज्यानि लोलाजितराजराजः / आजन्मभोगप्रदमस्तकर्म, न च्छत्रमन्यं सहते धरित्र्याम् // ( 31 ) तथापि चक्रन कुतोऽपि हेतो विवेश तस्यायुधवेश्म चक्रम् / दृष्टव्यलोकं धृतनीतिसार महो रहो धाम यथा सुमित्रम् //