________________ अथ तृतीयः सर्गः उदीक्ष्य तादात्विकमेतदेषां, चारित्रमाश्चर्यरसेऽवधूतैः / शिरोभिरुत्सारितदौत्यभारै यचिन्ति चित्ते भरतस्य दूतैः // अहो महासाहसमेतदेषां, लीकोत्तरं श्री भरतानुजानाम् / ये सेव्यतामेव ययुः प्रपन्न___स्वतातमार्गा न तु सेवकत्वम् // ( 3 ) येषां प्रवृत्तौ न रसो रणार्थ ____मन्वग्रजन्मानमकोत्तिभीत्या / * निवर्तमानोऽपि बभूव मोघो, भावारिघातं प्रतिपर्यवस्यन् / /