________________ 72 पार्षभीय-चरित-महांकात्यम अभूदृशाः केऽपि कठोरवीर्याः, __ कण्ठीरवाः शुश्रुविरे न करें। अष्टापदे ये पदमाशु दत्त्वा, प्रतापमायुदिनरत्नजैत्रम् // न क्रोधवर्यदमी रसेन्द्रा, विचक्रिरे तातनिदेशवश्याः / नष्टापदष्टापदसिद्धियोग्या स्तेनैव युक्तं सहसा बभूवः // युक्तं त्रिलोकोपकृताममीषां, क्रोधोऽपि बोधोन्मुखता जगाम / उद्योतकत्पाटलिमऽहिमाशोः, प्रभातजातः किमुतालुलोके // आदाय तातानुमतिप्रतीक्षा, संस्तम्भनीमौषधिमग्निशक्तेः / स्वात्मैव नामीभिरकर्षि गोत्र क्लेशानलानान्तु सहोदरोऽपि //