________________ द्वितीयः सर्गः ( 124 ) जननी धृतिरुद्यमः पिता, भगिनी सत्यरतिः सदा हिता / सहजः सविधे च बन्धवः, स्थिरता तुष्टि-कृपा-क्षमादयः // ( 125 ) मुदिता जननी स्वसा सुतो, - व्रतरङ्गः समता च गेहिनी / अनतिक्रमवृत्तिता स्नुषा, ____ भववरस्य विभावना सुता // (126 ) भगिनीपतिराहतागमो, ___रुचिरौ तत्तनयौ यशोवृषौ / अपि यस्य समाधिरात्मजारमणस्तत्तनया. तटस्थता // (127 ) गुणसंस्तव एव मातुलः, सुतपुत्राः सुनया महारथाः / उचिता नियतिः पितृष्वसा, गुणसन्दर्भितनामदायिनी // 1. क्षमाधवः इति पाठान्तरम् /