________________ आर्षभीय-चरित-महाकाव्यम् ( 112 ) दमनामभटः पदे पदे, कृतसौराज्यमहेऽस्य मण्डले।। विषयाः क्व हरन्तु ते धनं, यदपायानि धृतानि गुप्तिषु // ( 113 ) अतिदुःसहतांमसंवृते, कलयत्वाश्रवभूभृदोजसा। मुखमेव ददाति. सम्मुखे, ___ न तु सेनाधिकृतेऽस्य संवरे // . . ( 114 ) मदनो वदनोरुकालिमा, . भवति ब्रह्मभटेऽस्य जाग्रति / न हि पञ्चशरेण जीयते, . समरेऽसौ नवगुप्तिशक्तिभृत् // ( 115 ) भवसिन्धुमपि स्वसेवकान्, गतपारं स सुखेन तारयेत् / सुदती कियती तदग्रतः, कृशमध्या शुचिगोत्रया नदी //