________________ द्वितीयः सर्गः . ( 108 ) अजितेन जितं किमप्यहो, विजितेऽस्मिन् भुवनत्रयं जिनम् / इति तद्विजयाय संयमक्षितिपालः स्ववशो विधीयताम् // ( 106 ) चतुरङ्गचमूवृतः स हि, प्रभवेन्मोहजयाय नापरः / कठिनः शरभं विनाऽस्तु कः, शठकण्ठीरवदर्पलोठने // ( 110 ) रदनानिव शक्रदन्तिन चतुरस्तस्य गुणान् क्षमादिकान् / दधते किमु कान्दिशीकतां, न समुद्वीक्ष्य कषाययामिकाः // ( 111 ) तनयावनयावतंसितो, जयति द्वावपि मोहभूपतः। तनुजोऽस्य शमोऽनुपाधिको, गरुडः पन्नगवृश्चिकाविव //