________________ आर्षभीय-वरित-महाकाव्यम् ( 104 ) ददती स्वगणे परभ्रम, स्वति स्वैरिषु चात्मवैरिषु / अमुनैव विनिर्मिता सतामपि माया नयने विलुम्पति // . ( 105 ) जनसंवननाय कामिनी कनकेत्यक्षरषटकंबीजया / अपराजितयाऽस्य विद्यया, स्फुरितं कुत्र न पाठसिद्धया // ( 106 ) विनिपात्य गुरुत्वगह्वरे, सुखतृष्णां करिणी प्रदर्शयन् / विपरीतकथासृणिक्षतदमयत्यत्येष विवेककुञ्जरम् // ( 107 ) तुरगानुरगारिजिज्जवान्, प्रबलानस्य विकल्पसंज्ञकान् / गगनेऽप्यपरिस्खलद्गतीन, . समरे प्रेक्ष्य न कः प्रकम्पते //