________________ द्वितीयः सर्गः 1 ( 100 ) तदवारितपारिपन्थिक विषयः स्वार्थनितान्तजागरैः / ममतागहनात् समुत्थिते- मुषितो मुक्तिपथैन को जनः / / ( 101 ) कुपितं समुदीक्ष्य तत्कृता श्रवसेनान्यमनन्यसन्निभम् / चरणस्खलनैव जायते, व्रतभाजामपि धीरमानिनाम् // ( 102 ) पतितं युधि पञ्चसायकं, तदतिश्रेष्ठभद्रं सहेत कः / त्रिभिरेव जगत्त्रयीं जयन्, विफलां वेत्ति शरद्वयों हि यः // . ( 103 ) कुटिला हसितेन फेनिला, सलिलावर्तविवर्तनाभिभूत् / अमुना विहिताङ्गनानदी, नरके पातयति प्रमादिनः //