________________ प्रार्षभीय-चरित-महाकाव्यम् (66) . अतितुच्छनृपत्वशर्मणे, कुलवैरादिह यो यशःक्षयः / भवतां बत भस्मनः कृते, तदिदं चन्दनदाहसाहसम् // ( 67 ) , बलिनो यदि योद्धमुद्यता, रणकण्डूलभुजा भुजाभुजि / सहजेन न मोहवैरिणा, तहदो सम्प्रति योद्धमहथ // ( 68 ) स हि चित्तमहाटवीपतिः, प्रगुणीकृत्य कषाय-यामिकान् / अपि चक्रिपुरन्दरादिकान, निजबन्दीकुरुते निरन्तरम् // ( 66 ) तनयोऽस्य च रागकेसरी, सहजद्वेषगजेन्द्रसङ्गतः / कुरुते स्ववशंवदान् बलात्, ... प्रशमश्रेणिशिरःस्थितानपि॥