________________ 58 आर्षभीय-चरित-महाकाव्यम् ( 88 ) किमियं विमनस्कतोदिता, बलवत् सा भवतां श्रियः कृते / न कृतेऽपि नियन्त्रणाशते, कुटिलेयं स्ववशाऽवतिष्ठते // .. . ( 86 ) चलतां लहरीभ्य एव या, वडवाग्नेः परितापकारिताम् / अधिसागरमध्यगोष्ट तां, श्रियमिष्टां गणयेत् कथं बुधः // (60) विषवत् कमला विषस्वसा, परितापाय भवेन्न संशयः / शिरसा धुनदीमुवाह यद्, गिरिशोऽशेत हरिश्च वारिधौ / (61 ) सुकृतं स्वपतेश्छिनत्यहो, कमला स्वाश्रितवृक्षमूलवत् / . भवितास्मि कथं निराश्रये त्यपि नो वेद जडाशयोद्भवा /