________________ 56 पार्षभीय-चरित-महाकाव्यम् (80 ) विवदन्त इवान्तराकृत द्विजराजोत्तमस (ख्य)भ्यशोभिताः / शिखरेषु समच्छविच्छटा, निशि यन्नौषधयश्च तारकाः // * (.81 ) गुणवान् रहसि प्रकाशयेत्, . स्वगुणं न ध्वनयेत्तु डिण्डिमम् / इति यत्र रहस्यवेदिभि निशि दीपायितमौषधिवजः।। . ( 82 ) स्मनादमनागताहत ध्वनिपूर्णामृतपायिनो हृदः / शिखराणि तपोगिरेलयं, मुनयो यच्छिखरेषु तन्वते // (83) अमलायतदृष्टयश्च्युतः, फलमूलविहितस्ववृत्तयः। दधते चकिता यदाश्रिता, मुनयः केऽपि मृगाश्च तुल्यताम् /