________________ द्वितीयः सर्गः C . . . ( 68 ) दधदातपवारणं घनं, विपुलं योऽजनि मध्यभागतः / शिखरेषु च तीवमातपं, *विधुरिच्छामतिवृत्य वृद्धिमान् // कुसुमस्मितयालसद्वय___ स्तरुणालिङ्गितया कया स्फुटम् / / भ्रमरोचितशोभया न यद्वनराज्यानुकृता पणाङ्गना // ( 70 ) . स्फटिकोरुशिलानुबिम्बितं, स्वमवेक्ष्य प्रतिपन्थिशङ्कया। रदघातपरिश्रमं मदात्, . कुरुते यत्र सुरेन्द्रकुञ्जरः॥ ( 71 ) रतिकेलिरहस्यसाक्षिणी, हृदयग्राहिणि किन्नरीगणः / स्फटिकाश्मदरीपरीक्षिता, . . बुबुधे यत्र सखीव निर्मला // *विधिवाञ्छा।