________________ 52 पार्षभीय-चरित-महाकाव्यम (64 ) . यशसा भरणं भृतस्य च, प्रथमेन व्यभिचारमञ्चति / असिसौष्ठवपक्षपाति त न्न तु कस्यापि गृहे नियन्त्रितम् // . . (65) अयमेतु वयं समुद्यताः, क्षुभिताभ्भोधितरङ्गसन्निभाः / जनकानुमति विना परं, प्रणयामो न सगोत्रसङ्गरम् // (66 ) इति तानभिधाय सत्वरं, ययुरष्टापदमद्रिशेखरम् / प्रभुपादरजोविभूषितं, मदभाजो नृपगन्धसिन्धुराः॥ ( 67 ) जलदैरपि यो गुरुकृतो, विपुलं शिक्षितुमुन्नतिक्रमम् / समुपास्तिपरैः प्रकल्पित प्रसरनिर्भरहारदक्षिणः॥