________________ द्वितीयः सर्गः 51 ( 60 ) शयिताः स्वसुखे वयं मदा दभिभूता भरतेन भोगिनः / अधुना तदतीव भीषणामसिदंष्ट्रामुपदर्शयामहे // ( 61 ) अनुजा यदि याचिता रणं, ___ भरतेन स्फुटमग्रजन्मना / तदमी वितरीतुमुत्सुका, . न कृपाणः कृपणोऽत्र कोशभृत् // ( 62 ) विलसेद् बलवत्युपस्थिते, न कला हन्त कलागुरोरपि / द्विजनायकदर्शनं हर-. निह सिंहीतनयो निदर्शनम् // उदितास्मदुपक्रमादितो, विमला पङ्ककलङ्कशङ्कया। समराम्बुनिधेर्जयेन्दिरा, न च बन्धुदूहमेनमेष्यति //