________________ .50 पार्षभीय-चरित-महाकाव्यम् ( 56 ) अथवाऽश्लथवासनाशत प्रबलद्वन्द्वमपाकरिष्यति / वपुषि प्रसरेत् प्रियाप्रियप्रभवा विह्वलता न यद्वशात् // * ( 57 ) यदि वा न दिवा न वा निशि, स्थिरतामेति यदन्तरिन्द्रियम् / प्रविधाप्य वशं तदेव नः, - परमब्रह्मणि मज्जयिष्यति // .. . (58) विदधाति खमेव पुष्पितं, यदि युष्मत्प्रभुरेभिरङ्कुरैः। कुरुतां क इवास्य सेवनां, तदही तुल्यनुभावभावितः // ( 56) चरणाश्रयणं तु तेन न श्चरणोच्चारकृतोपदिश्यताम् / अननुष्ठितधर्मदेशके, गुरुता गच्छति नामशेषताम् //