________________ द्वितीयः सर्गः ( 52 ) धृतिरेव हि नः परं प्रति, प्रतिबध्नाति बलप्रवर्तनम् / विभृयात्कतमस्तु तेजसा, ननु पञ्चाननसूनुरूनताम् // अधिकं समुपासितश्च किं, भरतो ब्रूत फलं ददाति [नः] / किमु रक्षति यातुधानतो, मरणान्निःशरणान् भयातुरान् // ( 54 ) स्वमतान् मनुजान वितन्वती, पलितालीखटिकाक्षराङ्किताम् / किमु वा परिपातिनी जरी, . यमदूतों स निवारयिष्यति // ( 55 ) यदि वा तरसा रसायनं, सकलातङ्कविनाशि दास्यति / रबिधाम निशीव यबलाद्, गलितं यौवनमेति वार्धके /