________________ द्वितीयः सर्गः :47 ( 44 ) इदमस्त्वथ पक्षमेककं, त्रिषु सम्यग् विनिगन्तुमर्हथ / प्रभवे खलु विज्ञपय्य यं, विमलं दौत्यफलं लभामहे // ( 45 ) इति तेष वितीर्य वाचिकं, स्वविभोरुत्तरलाभकामिषु। व्यसृजन भरतानुजा गिरं, मुखपद्मान्मकरन्दसन्निभान् // ( 46 ) उचितं भरतेश्वरो नृपै भूतिपात्रैरभिषिच्यतेऽखिलैः न तु भागभुजः स्वबन्धवः, क्षतिमेष्यन्त्यनुपस्थिता अपि // ( 47 ) निजबन्धुषु बन्धुसम्पदा, प्रमदो यस्तमुदन्तमन्ततः / .. उदये हृदयेन विस्फुरत् कुमुदं वक्ष्यति कौमुदीपतेः //