________________ प्रार्षभीय-चरित-महाकाव्यम् ( 40 ) . अनुजादनुजारितेजसो, ___यदि तस्याश्रयणाद् बहिर्मुखाः / परदुर्ग्रहदुर्गसंनिभं, व्रतमादत्त तदा मदापहम् // ( 41) अथ पक्षयुगेऽपि वो रुचि न नयार्थद्वितये मनेरिव / निजखड्गलतोपलाल्यता, ___ तदनेकान्तकथेव सङ्गरे // ..(42 ) यदि नर्तयितुं समुत्सुका, रणरङ्गेऽसिनटी पटीयसीम् / यदुपज्ञमदः कलाऽखिला, भरतस्तत्र स कि स्खलिष्यति ? // ( 43 ) अमुनाऽपि जयोद्भवं भवा _ध्यवसायेन यशस्तमेष्यति / जलदाम्बुपयोनिधाविव, प्रपतत्तत्खलु पूर्णपूरकम् / /