________________ द्वितीयः सर्गः अभिषेकमहे महीश्वरा, भरतेशं कति नोपतस्थिरे। भवदुर्गविलङ्घनक्षणे, . चरणं चारुतरा गुणा इव // ( 37 ) अनुपस्थितिरत्र वः पुन . न हिमानीमहिमाम्बुजस्य किम् / फलशालिरसाललालिते, मथुराज्ये पिकपक्षिणामिव / ( 38 ) इयतैव निजावनिस्थितिः, सदसत्संशयगोचरीकृता। अधुनाऽपि भजध्वमाशु तं, जनिमाजीवितसंस्थितिस्तथा // ( 36 ) अधिकेऽत्र न तेजसा बलं, .... किमपि स्फोरयितुं च युज्यते / शलभो लभते कियद्यश- ......... स्तरणौ क्लृप्तरणः ऋधारुणः //