________________ द्वितीयः सर्गः ( 20 ) मदनो निजरूपसम्पदा, विजितो येन यथावपत्रपाम् / भजते स्म स इत्यदृश्यतां, अपमानो[णो]ऽपि निजेन चेतसा // ( 21 ) अजनिष्ट महान् पराभवो, हठतश्छत्रममुञ्चतोऽप्यहो। युधि यद्धनबाणवर्षणे, नृपतेश्छत्रमुचस्तु नो भयम् // ( 22 ) अयमुद्धतसेनया रया- ......... ज्जितषटखण्डसमग्रमण्डलः / निजभाल-ललामरत्नतामनयच्चक्रिपदं महोजितम् // ( 23 ) अथ तस्य रुचाभिमन्त्रितै बहुसिद्धौषधिमूलमिश्रितः / कलसर्जलसम्भृतैर्मूदा, सविकासैरिव मङ्गलाननः //