________________ द्वितीयः सर्गः 39 ( 12 ) अधिकं स्म विदन्ति नारयो, . ज्वलनं यत्प्रबल-प्रतापतः / दवह्निघने ततो भिया, प्रविशेयुः कथमन्यथा वने // - ( 13 ) लघुतलवदिन्दुमण्डलं, ___यशसो यस्य पुरः प्रतीयते / इति युक्तिमदम्बराङ्गणभ्रमणं तस्य मरुत्प्रचारतः // (14 ) विधुरङ्गति पीनफेनतां, प्रचलद्वारिकणन्ति तारकाः / तरणिस्तरुणोऽपि यद्यशोजलधौ विद्रुमंकन्दवृन्दति // ( 15 ) गलितैनिजदृग्गलन्तिका सलिलस्तापवतो वियोगतः / यदरिव्रजसुभ्र वामभूत्, . कुचशम्भोः स्नपनं निरन्तरम् // 1. 'प्रयोगतः इति स्वयाठान्तरम् /