________________ द्वितीयः सर्गः ( 4 ) यदसिभ्रमतोऽतिमूच्छिताः, पवनोद्धान्तलता[तां]वने द्विषाम् / उपवीक्ष्य तरङ्गमङ्गना, जलधौ खड्गिविषाणमद्रिषु // (5) भुवि जाग्रति चिन्तितार्पणा चतुरे यस्य करे ग्रहोदरे। सुरभूमिरुहाः स्म शेरते, गतचिन्ताः सुरशैलकन्दरे // तरलान् युधि वारियाचका नपि कुर्वन्नहितान् सुधापिबान् / मनुजाधिपतिर्न चिन्तिताधिकदः कर्मनुजैरचिन्ति यः // (7) अभिधावति यस्य चातुरी, विनतायास्तनये महानये। अलभन्त न पन्नगाः पदं, भुवि पाटच्चरपारदारिकाः //