________________ अथ द्वितीयः सर्गः ( 1 ) अथ साधुरिव स्वमानसं, भरतो भारतवर्षमन्वशात् / विभुकेवलसम्भवक्षणो___ऽवनमच्चक्रबलाज्जितक्षितिः // . ( 2 ) युधि योधयशःपयोव्रतो विलसत्कोशगहाद् विनिर्गतः / प्रविशंश्च पुरं परस्य यत्करवालोऽजनि योगसिद्धिमान् // ( 3 ) गजकुम्भभवास्त्रपायिनः, परतेजोवडवाग्निशोषिणः। . अगमन् यदसेर्यथा भयं, जलराशेर्न तथारिभूभुजः॥