________________ प्रथमः सर्गः ( 135 ) विश्वेश्वरोऽपि विहरंस्तदुपज्ञज्ञान धर्मज्ञलोककृतसंयमगात्रयात्रः / दीक्षादिनाद्विगलिते शरदां सहस्रो, घातिक्षयाद् विमलकेवलमाससाद // ( 136 ) भविककमलोल्लासं कुर्वन्निरस्ततमोभरः, प्रसृमरदृशां मार्गामार्गप्रदर्शनतत्परः। अकलिततपस्तेजोराशिदिनेश इवोदितो, भुवनविजयस्फीतां भेजे ततः स यशःश्रियम् / इति न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीमद्यशोविजयगणि - विरचिते "आर्षभीयचरिते महाकाव्ये" . . प्रथमः सर्गः।