________________ आर्षभीय-चरित-महाकाव्यम् ( 131 ) उज्जागरप्रशमसागरनाथदत्त सम्यक् कचं द्रवति किं शुचिधिष्ण्यसृष्टिः / आनन्दमेदुरसुरैविहिता तदानीं, श्रेयांसमूनि निपपात च पुष्पवृष्टिः // . ( 132 ) सार्धत्रयोदश-सुवर्ण-सुवर्णकोटीः, . कोटीरहीररुचिरं जितदिग्गणास्ते / श्रेयांसधाम्नि ववृषुः प्रभुभक्तिशैलक्रीडातटीप्रतिभटीकृतसन्निवेशाः // ( 133 ) ऐक्षवं.रसमिनाय ददानो, लब्धवान् यदसि काञ्चनसिद्धिम् / तत्त्वमेष विबुधो विबुधत्वं, नाम कोशनिहितार्थकथं नः // ( 134 ) साधुदानविधिवेधसि जाते येन भूरियमशोभि यशोभिः / तोषितेन विभुना परितुष्टा,. तुष्टुवुस्तमिति देवनिकायाः॥