________________ प्रथमः सर्गः 3 ( 127 ) मुदोचितं दास्यति यस्तपस्विने, क्रमप्रवर्धिष्णुफलं स लप्स्यते / इतीव तादृक् शिखया समन्विता, प्रभोः करस्थेक्षुरसः स्म भाषते // ( 128 ) जिनेश्वरस्तेन रसेन पारणं, जगद्विपद्वारणमाद्यमातनोत् / समुल्ललासास्य तनुस्ततः प्लुताः, पयोधरेणाभिनवेन भूरिव // ( 126 ) अभूद् विभोः शान्तरसः प्रसृत्वर स्ततो रसाद्भक्तिरसस्तु दायिनः / तथा परेषां हृदि विस्मयाभिधो, रसो रसेनेति मृषा न लोकगीः // ( 130 ) आघ्नन्तो दाग दुन्दुभीन् देवसङ्घा __ श्चेलोत्क्षेपं चापि गन्धाम्बुवर्षम् / श्रेयांसस्य व्यञ्जयामासुरुच्च रातन्वाना वेश्मनि स्वीयहर्षम् / /