________________ पार्षभीय-चरित-महाकाव्यम् ( 132 ) . क्रमोच्चभूर्दातृमनो गिरेरिव, स्फुटव तत्पुण्यपटी गृहच्छटा / शिखेव तत्कौशलवारिधेः पृथू, रराज धारक्षुरसी विभोः करे / .( 124 ) समुत्थितांहः पुरुषोत्तमस्य खात्, सरित् पपाते त्युचितार्थवित्तदा / विभोः करोत्थेक्षुरसापगा ययौ, प्रवृद्धपूरेण किमूर्ध्वमम्बरम् // ( 125 ) विभोः करस्थेक्षुरसं नभोलिहं, * प्रकारकोदधिशङ्कया विधुः।। स्वतातबुद्धे रविष्यदञ्जसा, तदैव नामस्यत चेद् घटोद्भवम् / ( 126 ) विधोः सुधायां मधुरो रसः किया निति स्वमाधुर्यगुणेन गवितः / विभोः करस्थेक्षुरसः शिखामिषात्, ' कुतूहली कि गगनं स्म गाहते //