________________ प्रथमः सर्गः ( 191 ) परोपकारार्थमधःस्थितिः करा ___ न्न दातुरेतहि मनस्विहिता। अधःस्थितैरेव फणाभृतां फर्ण. वसुन्धरा भूरिधराधराधृता // . ( 120 ) विधाय वामं प्रति वाम्यवासनां, त्वया न हेयावसरौचिती निजा। रणे जयं ह्यष ददौ भवान् मुखं, चकार दानादुपशान्तनिःस्वताम् // .. ( 121 ) गुणग्रहात् प्रेम मिथः समुल्लसे न्न दोषदृष्टिस्तु सुखाय कस्यचित् / विवादभाजोः करभामंताशिनोन क्लुप्तयुक्तिः कलहं व्यपोहति // ( 122 ) इमां स शिक्षामुपलब्धवान् गुरोः, __ करोऽथ सद्यः प्रससार दक्षिणः। पयः पयोदः सरसीव धारया, . ववर्ष तत्रेक्षुरसं नृपात्मभूः / /