________________ प्रथमः सर्गः ( 111 ) अलं परासङ्गतिचुम्बिचेतसा, कथं मयीदं घटतामिहागते / अभूयत स्वप्नमहीरुहैस्त्रिभियंदुद्गता स्वप्नमहीरुहाङ्कुरैः॥ ( 112 ) ध्र वोपकार्येऽप्युपकारिता विभोः,' प्रदर्शिता स्वप्नगणेन या मयि / क्व भेददृष्टौ घटतां विपर्ययादभेदसृष्टावपि सा द्वयागतेः॥ ( 113 ) प्रभुप्रभावादथवा न दुर्घट, किमप्यदो भक्त्युचितप्रदो हि सः। न नाम तद्दानकलास्वधोतिनो, मरुद्गवीकामघटामरद्रुमाः // ( 114 ) कपालनाशात्कलशक्षये यथा, . पुरातनन्यायमताभिमानिनाम् / विभोरथ स्वाङ्गणभूषणे तथा, क्षणं विलम्बोऽपि न मे प्ररोचते //