________________ पार्षभीय-चरित-महाकाव्यम् ( 107 ) अलक्षितस्वार्थगतिः प्रयत्नवा निहागतोऽसौ मम बोधिसिद्धये / रवीन्दुमेघोपमया महात्मनां, परोपकाराय विनिर्मितं जनुः // . . ( 108 ) अमी जनाः स्वामिसुखाय नेशते,. . - यदन्नकाले द्रविणादिदायिनः। विवेकनेत्रावरणत्वमीयुषी, ततः क्वचिद्भद्रकलाऽपि दोषभाग् // ( 106 ) गुणान्वये भद्रकतातिशोभना, तमन्तरेणानुकरोत्यशोभना / सुधांशुयोगे रजनीं स्फुटोदयां, समुद्धतध्वान्तमयों तदत्यये // ( 110 ) फलं विना यामधिकार्पणादपि, स्थले जलं स्वादु यथा न लेभिरे / अमी समीहाविषयां सृजन्तु तां, सुपात्रदानकविधेरभिज्ञताम् //