________________ प्रथमः सर्गः __ ( 103 ) अवर्षि वर्ष विषमैः परीषहै ___ रमोघधाराधरतुल्यकर्मणा / न बिन्दुरेकोऽप्यलगच्चयैरलं, समाधिसच्छत्रमिदं विभो स्तुमः // (104 ) न संविदानोऽपि परीषहद्विषां, चमू जिगीषुविधिमाह भैक्षगम् / उदात्तशान्तत्वमिदं जगत्पतेः, समाधिहारेऽञ्चति नायकश्रियम् // ( 105 ) स्वयं तपोभिः प्रबलः प्रतप्यते, तनोति तापापहति च मादृशाम् / अयं गुणः किं जगृहे भवच्छिदा, __ सविद्युतः शान्तदवात् पयोमुचः // ( 106 ) मदर्थसंरक्षितदानकौशल प्रजापरं कौशलमध्यजीगपत् / न संनिधौ वा व्यवधौ निजं जनं, विभुविभक्तव्यमपेक्ष्य वञ्चयेत् //