________________ आर्षभीय-चरित-महाकाव्यम् ( 66) अचिन्त्यशक्तिः कुरुते क्षणान्नवं, पुरातनं प्रेम दगेव देवता। विनैव गोचकृतां व्यवस्थितं [ति], मनोरथं वाहयति स्वसम्मुखम्॥ ___(100 ) विलोकनादेव गरीयसां गुरो बभूव मे क्षीरसमुद्रमज्जनम् / अमुद्रमुद्वयजितसंस्तवस्मृते रथास्तु पीयूषपयोधिमग्नता // . ( 101 ) अपोहमूहं च किलास्य तन्वतो, . गतस्य सम्मोहमिति क्षणं हृदा। स्ववासनानुद्भवयामिनीव्यये, बभूव जातिस्मरणारुणोदयः // ( 102 ) स तेन पूर्व जगदीशसंस्तवं, मुमुक्षुमार्ग च यथास्थितं विदन् / इदं हृदन्तनिदधे नृपात्मभू विचित्रतत्कार्यचरित्रविस्मितः॥