________________ प्रथमः सर्गः ___ 25 25 (65) अलक्षिताभ्यन्तरलक्षणः प्रभुः बहिर्गुणैरेष तु तैर्न नूयते / पुरप्रतोलीपरिखादि वर्णने, न वर्णितः स्यात् खलु तत्त्वतो नृपः // (66 ) अदस्तुलाभृत्परदेवगर्हणा प्यनर्हणामञ्चति काव्यशिल्पिना / विचारकृद् व्याहतिमीक्षतेऽत्र कि, न सिद्धचसिद्धयोः स्फुटनिग्रहस्थलाम् // ( 67 ) तपोनिधिः सत्यविधिश्चिदर्यमा, .. चरित्रचूडामणिरेष शाश्वतः / इति प्रतीतिर्यदि योग्यतां व्रजे. दमुत्र वित्रासितभावशात्रवे // (68) अमूदृशं रूपमनुत्तरं पुरा, - मया दृगातिथ्यमनायि तायिनः / अमू समूढामृतपानलालसे, कुतोऽन्यथादृष्ट इवात्र धावतः //