________________ पार्षभीय-चरित-महाकाव्यम् (61) बहिर्मह[:] किञ्चिदगोचरो गिरा, पटावृतस्येव महामणेरहो। अमुद्रितं स्फूर्जति मुद्रमास्य यत्, तदंशतः स्युः शतमहिमालिनः // ( 62 ) विचार्यते स्वोपमिति स्थलं यथा, कथा समाये (ने)षु विशीर्यते तथा / वजन्ति बन्धं विशरारुधर्मकाः, करे गृहीताः सिकताः कियच्चिरम् // ( 63 ) अमुष्य संशुद्धगुणाब्धिमक्षमो, 'विगाहितुं चित्तविचारणोडुपः / कलङ्कमुक्तं यदुशन्ति निष्कलं, तदेव धामेदमुदीतमादिमम् // (64) बहिः प्लवन्तामिह भूरिकल्पनाः, स्पृशन्ति ता नास्य गुणं मनागपि / अनेकमायाजलचक्रचुम्बनाद, रसो न गृह्यते हि तात्त्विकाम्बुनः // 1- वंक्रयादयश्च [उ० सं०] इत्यनेन साधुः / ह्रःद्यः उभयत्र तिवानयं शब्दः /