________________ मार्षभीय-चरित-महाकाव्यम् ( 83 ) अथापि पश्याभिमुखं मुखेन्दुना, दिवापि विश्राणित-कौमुदीमहः / अनाद्यप्रज्ञेषु निवेदिताशयो, भृशं भवास्मासु कृपापयोनिधिः // (84) ' मनस्विनाऽजो यदि बोध्यते जनो, निजाशयं न क्षतिमेति तावता। कृपालता प्रत्युत तस्य पीनता, . फलद्वयेनैकपदेऽधिगच्छति // (85) गृहेषु सर्वोत्तममस्तु वस्तु नः, कृतार्थमंद्वियसेवनात् तव / गिरोत्तमणेन सुधां प्रदाय नस्त्वयाधमर्णत्वमपि व्युदस्यताम् // ( 86 ) इति ब्रु वाणैर्मनुजैरितस्ततो, वतं विनीतैरभिनीतिभक्तिभिः / मतङ्गजां मत्तमिवाभिसान्त्वने, सगर्वगन्धर्वकलाविलासिभिः // . (कुलकम्) 1- वंक्रयादयश्च (उ० सं०) इत्यनेन साधुः।