________________ प्रथमः सर्गः ( 76 ) विना न हर्षाश्रुभिरक्षिवञ्चितं, __मुखाम्बुजं नापि विकासमन्तरा / वर्णविना नो पुलकावगुण्ठनं, कराद् ऋ(वृ)ते नाञ्जलिबन्धसन्धया // ( 80 ) पदोः प्रमादोऽभिगतो न निर्ममे, न च त्वयि स्वादुगिरोऽपि निर्ममे / धृता स लक्षम्या न निजा न तत्यजे, . न ते नमोऽकारि न दुष्कृतत्यजे // ( 81 ) अयं जनस्त्वां न च नोपतिष्ठते, स्वशक्तितो भानुमिवार्धपूजया। कथं तुदेन्नानुचितं च कण्टक. स्तथाप्ययं ते भृतकाननुग्रहः // (82) गहाङ्गणं नो निजपादपङ्कज- . स्त्वयाऽर्चयित्वा यदि नीतमय॑ताम् / अशौचसम्भावनया प्रतिग्रहात्, तदा पुनस्तर्कमलम्भि चर्च्यताम् //