________________ पार्षभीय-चरित-महाकाव्यम् ( 75 ) विभोः सः हेलोद्दलिताघपर्वत व्रजोच्छलत्पुण्यमहापयोनिधेः / प्रवृद्धवेलोजितगजितभ्रमं, ततान संक्षोभितपौरयादसः॥ (76) प्रवर्धमानं विनिरुद्ध दिग्गणं, गुणं गुणित्वेन नभो बभार तम् / कथञ्चिदेवोपहितत्वमस्पृशन्, .. ममौ न स श्रोत्रशते तु देहिनाम् // (77) यशोनिधिः सोमयशःसुतोऽथ तं, निशम्य कर्णेन स कर्णपुङ्गवः / किमेतदित्याहितसम्भ्रमो निजं, नभोलिहं सौधगवाक्षमागतः॥ (78 ) बुभुत्सुरेतस्य निदानमादितो, विनिक्षिपन्नक्षि विदिक्षु दिक्षु च / भ्रमन्तमन्तःकरणः सहाङ्गिनां, सम्भाग्यवन्तं भगवन्तमक्षत //