________________ प्रथमः सर्गः 16 (71) दधत् परं सर्वसहिष्णुतागुणं, वसुन्धरातोऽपि वसुन्धरागुरुः / महानिलादप्रतिबन्धसन्धया, विशेषवान् नित्यवशीकृतानलः // ( 72 ) विशारदः शारदवारिदृप्तता निवारिणीमाकलयन् प्रसन्नताम् / अनन्तपद्मः परिबिभ्रदुच्चकरलेपत्तां पद्मदलातिशायिनीम् // (73 ) अभीष्टभूयः सुमनोरसो व्रजन्, पुरात् पुरं भृङ्ग इवाब्जमब्जतः / पुरन्दरद्रङ्गमदोग्रताहरं, . पुरं गजैकोपपदं व्यभूषयन् // ( 74 ) स तत्र गत्वा रुचिरं गृहे गृहे, प्रदीयमानं द्रविणाद्यनाददत् / अकालकोलाहलसकुलं नभो, न लाति ने[ते]ति जनैरकारयत् //