________________ प्रार्षभीय चरित-महाकाव्यम् ( 67 ) अथ प्रभुः पारमहंस्य-वासना. . विशीर्णनिःशेषविकारसारधीः / भ्रमन्ननेकेषु कुलेष्वसम्भ्रमा दनाप्तभक्षप्रसरत्तपोबलः // . ( 68 ) विशिष्ट पात्रप्रतिलम्भतो नृणा, प्रमोदबाष्पैर्दुतलोचनं पुरा। गृहाद् विनिर्यन्नकृतप्रतिग्रह स्ततश्च शोकाश्रुभिरिष्टवञ्चनात् / / - (66) प्रतिग्रहेणानुगृहाण मेदिनी, परोपकाराद् विमुखोऽत्र मा स्म भूः / जनस्य भक्त्या ललितालकच्छलादितीव कर्णान्तमुपेत्य शिक्षितः॥ (70) दिदृक्षुरीर्यासमितिच्छलाद् रसा तले प्रविष्टानपि कर्मवैरिणः / / तपोचिषा भानुरिवातिदुस्सहो, जगद् दगासेचनः (तः) सुधांशुवत् //