________________ पार्षभीय-चरित-महाकाव्यम् ( 56 ) अमी इति स्वान्तसमीरचापल. प्रयुक्तयोगप्रभुताहतातयः। भवच्च कं योगमतेऽपि योग्यतां, जिनावधानेन तपोभूतो दधुः // (60) चिरान्निबद्धोरुजविनिर्मित प्रवालमूलाम्बुफलादिवृत्तिभिः / वियोगिभिस्तरुपगङ्गमीदृशैः, स्थितं सरङ्गरिव जङ्गमर्दुमैः // . ( 61 ) विनाऽपि तैविश्वविभुस्तु केवलः, सुरद्रुमः शेषमहीरुहैरिव / विदिद्युते सौरभमुगिरन् यशस्त्रिलोककुक्षिम्भरिपुण्यपुष्पितः // ( 62 ) ततान धूमायितमादिमस्तनौ, - यदाकुलत्वात्त विभोः परीषहः / फलोदये ध्यापुरसालभूरुह स्तदा ययौ दोहदधूपधूमताम् //