________________ आर्षभीय-चरित-महाकाव्यम् (51) वसुव्ययादाददतेऽप्यसुव्ययाद्, .. यदाश्रवस्थर्ययशोमनीषिणः / तदेव चेदात्मकरागतं हृतं, / तदा किमस्थाप्यत नो बुभुक्षया // (52) पुरा न पृष्टो नियमस्थिति प्रभु ते तु पृष्टोऽपि स नाह किञ्चन / करोति किं लक्षणया न साम्प्रतं, - गृहे गतानां भरतो व्रतोत्सवम् // . ( 53 ) ततो विनीतास्त्वटवीयमेव नः, कुटुम्बिनोऽमी तरवो नवोदयाः / मृगाश्च मित्राणि मृगारिदारितद्विपेन्द्रचर्माणि च वस्त्रसञ्चयाः // ( 54 ) निकुञ्जगुञ्जन्मधुपालिलालित द्विजस्वररस्त्विह तूरपूरणम् / . प्रभातसम्पादितमङ्गलारवाः, शृगाल-बालाश्च भवन्तु बन्दिनः //