________________ प्रथमः सर्गः ( 47 ) अपि प्रबुद्धरुदरार्थमथिभिः, समं धनान्धः क्रियते दुरोदरम् / न हार्यमाणं छलपाशपातनाद्, वृथा सुवर्ण निजवृत्तमीक्ष्यते // (48) कुठारिकामानकपाटपाटने, विलज्जता नाट्यनटीपटीयसी। विचित्रवंशस्थितिचित्रलुम्पने, . मषीसखीयं जठरोद्भवा व्यथा // ( 46 ) इमां जगद्भक्षणराक्षसी सुधां, निरोद्ध मेको भगवान् प्रगल्भते / अलाभलाभाजितदैन्यविस्मयव्यपेतचेताः स हि योगिपुङ्गवः // (50) यथा करिष्यत्ययमेष नः प्रभु . स्तथा करिष्याम इति स्वनिश्चयम् / वयं तु हित्वा न परं जगद्गुरोः, स्वचेतसोऽपि प्रब्रलं त्रपामहे // .