________________ पार्षभीय-चरित-महाकाव्यम् ( 43 ) पुरं प्रविश्याक्षकपाटपाटना . पुरस्सरं लुण्टितसारसम्पदः / करोति यः क्षुत्कटकस्य निग्रहं, ____ तमन्नदेवं समुपास्महे वयम् // ( 44 ) ददाति यो नावसरेऽन्नमथिने, प्रदाह्य चिन्तासु परं प्ररोदयन् / / स्वयं चितायां ज्वलतः स्वरोदकात्, - स बद्धमुष्टिम॒तकाद् विशिष्यते॥ . ( 45 ) वनीपकानां भृतया यदाशया, यशः प्रसूते समयेऽन्नदायकः / समागतादेव गुणान्निदानतो, भवेत्तदाशाभरणकलोलुपम् // भवेन्न तुङ्गानतमूर्धनामिनी, व्यथोदरव्यन्तरनिर्मिता यदि। . किमर्थमर्थ्यन्त इमेऽतिभीषणाः, कृपाणतुल्याः कृपणास्तदा जनः / /